|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.47. अध्यायः 047
Mahabharata - Karna Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-47-0x(4965)(57295)
क्षत्रियास्ते महाराज परस्परवधैषिणः।
अन्योन्यं समरे जघ्नुः कृतवैरा महौजसः॥ 8-47-1(57296)
रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः।
गजौघाश्च महाराज संसक्ताश्च परस्परम्॥ 8-47-2(57297)
गदानां परिघाणां च शक्तीनां च परस्परम्।
प्रासानां भिण्डिपालानां मुसुण्ठीनां च सर्वशः॥ 8-47-3(57298)
सम्पातं चानुपश्याम सङ्ग्रामे भृशदारुणे।
शलभा इव सम्पेतुः शरवृष्ट्यः समन्ततः॥ 8-47-4(57299)
नागान्नागाः समासाद्य व्यधमन्त परस्परम्।
हया हयांश्च समरे रथिनो रथिनस्तथा॥ 8-47-5(57300)
पत्तयः पत्तिसङ्घांश्च हयसङ्घांश्च पत्तयः।
पत्तयो रथमातङ्गान्रथा हस्त्यश्वमेव च।
नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप॥ 8-47-6(57301)
वध्यतां तत्र शूराणां क्रोशतां च परस्परम्।
घोरमायोधनं जज्ञे पशूनां घातने यथा॥ 8-47-7(57302)
रुधिरेण समास्तीर्णा बभौ भारत मेदिनी।
शक्रगोपगणाकीर्णा प्रावृषीव वसुन्धरा॥ 8-47-8(57303)
यथा वा वाससी शुक्ले महारजनरञ्जिते।
बिभ्रती युवती श्यामा तद्वदासीद्वसुन्धरा॥ 8-47-9(57304)
`बद्वचूडामणिधरैः शिरोभिश्चारुकुण्डलैः।
उज्झितैर्वृषभाक्षाणां भ्राजते स्म वसुन्धरा'॥ 8-47-10(57305)
शशशोणितदिग्धेव शातकुम्भमयीव च।
`भूर्बभौ भरतश्रेष्ठ शान्तार्चिर्भिरिवानलैः॥' 8-47-11(57306)
छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह।
कुण्डलानां पिनद्धानां भूषणानां च भारत॥ 8-47-12(57307)
निष्काणां हेमसूत्राणां शरीराणां च धन्विनाम्।
चर्मणां सपताकानां सङ्घास्तत्रापतन्भुवि। 8-47-13(57308)
`अगम्यकल्पा पृथिवी सर्वतो भृशकर्दमा'॥
गजा गजान्समासाद्य विषाणैरार्दयन्नृप।
विषाणाग्रहतास्तत्र भ्राजन्ते द्विरदोत्तमाः।
रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव।
`प्रावृट्काले महाराज मेघा इव सविद्युतः'॥ 8-47-14(57309)
स्यन्दमाना यथा भान्ति पर्वता धातुमण्डिताः।
`तथा रेजू रणे नागा रुधिरेण समाप्लुताः'॥ 8-47-15(57310)
तोमरान्सादिभिर्मुक्तान्प्रतिमानस्थितान्बहून्।
हस्तैरुद्धृत्य तान्नागा बभञ्जुश्चापरे रणे॥ 8-47-16(57311)
नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः।
हिमागमे यथा राजन्व्यभ्रा इव महीधराः॥ 8-47-17(57312)
शरैः कनकपुङ्खैश्च चिता रेर्जुर्गजोत्तमाः।
उल्काभिः सम्प्रदीप्ताग्राः पर्वता इव भारत॥ 8-47-18(57313)
केचिदभ्याहता नागैर्नागा नगवरोपमाः।
न चेलुः समरात्तस्माच्छिन्नपक्षा इवाद्रयः॥ 8-47-19(57314)
अपरे प्राद्रवन्नागाः शरार्ता व्रणपीडिताः।
प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे॥ 8-47-20(57315)
निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान्।
वेमुश्च बहवो राजंश्चुक्रुशुश्चापरे गजाः॥ 8-47-21(57316)
हयाश्च निहता बाणैर्हेमभाण्डविभूषिताः।
निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश॥ 8-47-22(57317)
अपरे क्लिश्यमानाश्च व्यवेष्टन्त महीतले।
भावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः॥ 8-47-23(57318)
नरास्तु निहता भूमौ कूजन्तस्तत्र मारिप।
दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान्॥ 8-47-24(57319)
धावमानान्परांश्चान्ये दृष्ट्वान्ये तत्र भारत।
ख्यातानि गोत्रनामानि शशंसुरितरेतरम्॥ 8-47-25(57320)
तेषां छिन्ना महाराज भुजाः कनकभूषणाः।
उद्वेष्टन्ते विवेष्टन्ते भ्रमन्ति ह्युत्पतन्ति च॥ 8-47-26(57321)
निपतन्ति तथैवान्ये स्फुरन्ति च सहस्रशः।
वेगांश्चान्ये रमे चक्रुः पञ्चास्या इव पन्नगाः॥ 8-47-27(57322)
ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशाम्पते।
लोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव॥ 8-47-28(57323)
वर्तमाने तथा घोरे सङ्कुले सर्वतो दिशम्।
अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम्॥ 8-47-29(57324)
भौमेन रजसाकीर्णे शस्त्रसम्पातसङ्कुले।
नैव स्वे न परे राजन्व्यज्ञायन्त तमोवृताः॥ 8-47-30(57325)
तथा तदभवद्युद्धं घोररूपं भयानकम्।
लोहितोदा महानद्यः प्रसस्रुस्तत्र चासकृत्॥ 8-47-31(57326)
शीर्षपाषाणसञ्छन्नाः केशशैवलशाद्वलाः।
अस्थिमीनसमाकीर्णा धनुःशरगदोडुपाः॥ 8-47-32(57327)
मांसशोणितपङ्किन्यो घोररूपाः सुदारुणाः।
नदीः प्रवर्तयामासुः सोणितौघविवर्धिनीः॥ 8-47-33(57328)
भीरुवित्रासकारिण्यः शूराणां हर्षवर्धनाः।
ता नद्यो घोररूपास्तु नयन्त्यो यमसादनम्॥ 8-47-34(57329)
अवगाढान्मज्जयन्त्यः क्षत्रस्याजनयन्भयम्।
क्रव्यादानां नरव्याघ्र नर्दतां तत्रतत्र ह॥ 8-47-35(57330)
घोरमायोधनं जज्ञे प्रेतराजपुरोपमम्।
उत्थितान्यगणेयानि कबन्धानि समन्ततः॥ 8-47-36(57331)
नृत्यन्ति वै भूतगणाः सुतृप्ता मांसशोणितैः।
पीत्वा च शोणितं तत्र वसां भुक्त्वा च भारत॥ 8-47-37(57332)
मेदोमज्जावसामत्तास्तृप्ता मांसस्य चैव ह।
धावमानाः स्म दृश्यन्ते काकगृघ्रबकास्तथा॥ 8-47-38(57333)
शूरास्तु समरे राजन्भयं त्यक्त्वा सुदुस्त्यजम्।
योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत्॥ 8-47-39(57334)
शरशक्तिसमाकीर्णे क्रव्यादगणसङ्कुले।
व्यचरन्त रणे शूराः ख्यापयन्तः स्वपौरुषम्॥ 8-47-40(57335)
अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारत।
पितृनामानि च रणे गोत्रनामानि वा विभो॥ 8-47-41(57336)
श्रावयाणाश्च बहवस्तत्र योधा विशाम्पते।
अन्योन्यमवमृद्रन्तः शक्तितोमरपट्टसैः॥ 8-47-42(57337)
वर्तमाने तथा युद्धे घोररूपे सुदारुणे।
व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे॥ ॥ 8-47-43(57338)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तचत्वारिंशोऽध्यायः॥ 47 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-47-4 वृष्ट्यः वृष्टयः॥ 8-47-47 सप्तचत्वारिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|